Hanuman Dwadash Naam Stotram – श्री हनुमान् द्वादश नाम स्तोत्रम्

Get Sri Hanuman Dwadash Naam Stotram in Hindi Lyrics here and chant Hanuman Ji Ke Dwadash Naam with devotion for the grace of Lord Anjaneya.

Hanuman Dwadash Naam Stotram – श्री हनुमान् द्वादश नाम स्तोत्रम् 

हनुमानञ्जनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ १ ॥

उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा ॥ २ ॥

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयं नास्ति सर्वत्र विजयी भवेत् ॥ ३ ॥

इति श्री हनुमान् द्वादश नाम स्तोत्रम् ॥

प्रातिक्रिया दे